आ॒दि॒त्या रु॒द्रा वस॑वः सुनी॒था द्यावा॒क्षामा॑ पृथि॒वी अ॒न्तरि॑क्षम्। स॒जोष॑सो य॒ज्ञम॑वन्तु दे॒वा ऊ॒र्ध्वं कृ॑ण्वन्त्वध्व॒रस्य॑ के॒तुम्॥
ādityā rudrā vasavaḥ sunīthā dyāvākṣāmā pṛthivī antarikṣam | sajoṣaso yajñam avantu devā ūrdhvaṁ kṛṇvantv adhvarasya ketum ||
आ॒दि॒त्याः। रु॒द्राः। वस॑वः। सु॒ऽनी॒थाः। द्यावा॒ऽक्षामा॑। पृ॒थि॒वी। अ॒न्तरि॑क्षम्। स॒ऽजोष॑सः। य॒ज्ञम्। अ॒व॒न्तु॒। दे॒वाः। ऊ॒र्ध्वम्। कृ॒ण्व॒न्तु॒। अ॒ध्व॒रस्य॑। के॒तुम्॥
स्वामी दयानन्द सरस्वती
फिर उसी अहिंसाधर्म की उन्नति के विषय को अगले मन्त्र में कहा है
स्वामी दयानन्द सरस्वती
पुनस्तमेवाहिंसाधर्मोन्नतिविषयमाह।
हे मनुष्या यथादित्या रुद्रा वसवः पृथिवी द्यावाक्षामा अन्तरिक्षं च सजोषसः सुनीथा यज्ञं वर्द्धयन्ति तथा सजोषसो देवा यज्ञमवन्त्वध्वरस्य केतुमूर्ध्वं कृण्वन्तु ॥८॥